|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.89. अध्यायः 089
Mahabharata - Adi Parva - Chapter Topics
शकुन्तलोपाख्यानारम्भः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
जनमेजय उवाच। 1-89-0x(567)(3864)
भगवन्विस्तरेणेह भरतस्य महात्मनः।
जन्म कर्म च सुश्रूषोस्तन्मे शंसितुमर्हसि॥ 1-89-1(3865)
वैशम्पायन उवाच। 1-89-2x(568)
पौरवाणां वंशकरो दुष्यन्तो नाम वीर्यवान्।
पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम॥ 1-89-2(3866)
चतुर्भागं भुवः कृत्स्नं यो भुङ्क्ते मनुजेश्वरः।
समुद्रावरणांश्चापि देशान्स समितिंजयः॥ 1-89-3(3867)
आम्लेच्छावधिकान्सर्वान्स भुङ्क्ते रिपुमर्दनः।
रत्नाकरसमुद्रान्तांश्चातुर्वर्ण्यजनावृतान्॥ 1-89-4(3868)
न वर्णसङ्करकरो न कृष्याकरकृज्जनः।
न पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति॥ 1-89-5(3869)
धर्मे रतिं सेवमाना धर्मार्थावभिपेदिरे।
तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे॥ 1-89-6(3870)
नासीच्चोरभयं तात न क्षुधाभयमण्वपि।
नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे॥ 1-89-7(3871)
स्वधर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः।
तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः॥ 1-89-8(3872)
कालवर्षी च पर्जन्यः सस्यानि रसवन्ति च।
सर्वरत्नसमृद्धा च मही पशुमती तथा॥ 1-89-9(3873)
स्वकर्मनिरता विप्रा नानृतं तेषु विद्यते।
स चाद्भुतमहावीर्यो वज्रसंहननो युवा॥ 1-89-10(3874)
उद्यम्य मन्दरं दोर्भ्यां वहेत्सवनकाननम्।
चतुष्पथगदायुद्धे सर्वप्रहरणेषु च॥ 1-89-11(3875)
नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठतः।
बले विष्णुसमश्चासीत्तेजसा भास्करोपमः॥ 1-89-12(3876)
अक्षोभ्यत्वेऽर्णवसमः सहिष्णुत्वे धरासमः।
संमतः स महीपालः प्रसन्नपुरराष्ट्रवान्॥ 1-89-13(3877)
भूयो धर्मपरैर्भावैर्मुदितं जनमादिशत्॥ ॥ 1-89-14(3878)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोननवतितमोऽध्यायः॥ 89 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-89-5 न कृष्याकरकृत् कृषिकृन्न भुवोऽकृष्टपच्यत्वात्। आकरः सुवर्णादिधातूत्पत्तिस्थानं तत्रापि यत्नं न करोति पृथिव्या रत्नैर्धातुभिश्च पूर्णत्वात्॥ 1-89-8 दैवे कर्मणि वृष्ट्याद्यर्थे कारीर्यादिकाम्यकर्मणि॥ 1-89-9 तदेवाह कालेति॥ 1-89-10 वज्रसंहननो दृढदेहः॥ 1-89-11 सवनकाननं वनं जलमुपवनं वा॥ 1-89-14 आदिशत् शशास॥ एकोननवतितमोऽध्यायः॥ 89 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|